।। अष्टावक्रगीता ।।
अध्यायः८
अष्टावक्र उवाच॥
तदा बन्धो यदा चित्तं किन्चिद् वांछति शोचति।
किंचिन् मुंचति गृण्हाति किंचिद् दृष्यति कुप्यति॥८- १॥
तदा मुक्तिर्यदा चित्तं न वांछति न शोचति।
न मुंचति न गृण्हाति न हृष्यति न कुप्यति॥८- २॥
तदा बन्धो यदा चित्तं सक्तं काश्वपि दृष्टिषु।
तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु॥८- ३॥
यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा।
मत्वेति हेलया किंचिन्मा गृहाण विमुंच मा॥८- ४॥