।। अष्टावक्रगीता ।।
अध्यायः७
जनक उवाच॥
मय्यनंतमहांभोधौ विश्वपोत इतस्ततः।
भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता॥७- १॥
मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः।
उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः॥७- २॥
मय्यनंतमहांभोधौ विश्वं नाम विकल्पना।
अतिशांतो निराकार एतदेवाहमास्थितः॥७- ३॥
नात्मा भावेषु नो भावस्तत्रानन्ते निरंजने।
इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः॥७- ४॥
अहो चिन्मात्रमेवाहं इन्द्रजालोपमं जगत्।
इति मम कथं कुत्र हेयोपादेयकल्पना॥७- ५॥