।। अष्टावक्रगीता ।।

अध्यायः१४

जनक उवाच॥
प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः।
निद्रितो बोधित इव क्षीणसंस्मरणो हि सः॥१४- १॥



क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः।
क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा॥१४- २॥



विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे।
नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम॥१४- ३॥



अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः।
भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते॥१४- ४॥