।। अष्टावक्रगीता ।।

अध्यायः१३

जनक उवाच॥
अकिंचनभवं स्वास्थं कौपीनत्वेऽपि दुर्लभं।
त्यागादाने विहायास्मादहमासे यथासुखम्॥१३- १॥



कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते।
मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम्॥१३- २॥



कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः।
यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम्॥१३- ३॥



कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः।
संयोगायोगविरहादहमासे यथासुखम्॥१३- ४॥



अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा।
तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम्॥१३- ५॥



स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा।
नाशोल्लासौ विहायास्मदहमासे यथासुखम्॥१३- ६॥



सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः।
शुभाशुभे विहायास्मादहमासे यथासुखम्॥१३- ७॥